(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.350. अध्यायः 350
Mahabharata - Shanti Parva - Chapter Topics
वैशम्पायनेन जनमेजयंप्रति अर्जुनाय स्वमाहात्म्यख्यापनपूर्वकं श्रीकृष्णकृतनारायणादिस्वनामनिर्वचनानुवादः॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

जनमेजय उवाच। 12-350-0x(6605)(79899)
अस्तौषीद्वैदिकैर्व्यासः सशिष्यो मधुसूदनम्।
नामभिर्विविधैरेषां निरुक्तं भगवन्मम॥ 12-350-1(79900)
वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरः।
श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः॥ 12-350-2(79901)
वैशम्पायन उवाच। 12-350-3x(6606)
शृणु राजन्यथाचष्ट फल्गुनस्य हरिः प्रभुः।
प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम्॥ 12-350-3(79902)
नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः।
पृष्टवान्केशवं राजन्फगुनः परवीरहा॥ 12-350-4(79903)
अर्जुन उवाच। 12-350-5x(6607)
भगवन्भूतभव्येश सर्वभूतसृगव्यय।
लोकधाम जगन्नाथ लोकानामभयप्रद॥ 12-350-5(79904)
यानि नामानि ते देव कीर्तितानि महर्षिभिः।
वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः॥ 12-350-6(79905)
तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव।
न ह्यन्यो वर्णयेन्नाम्नां निरुक्तं त्वामृते प्रभो॥ 12-350-7(79906)
श्रीभगवानुवाच। 12-350-8x(6608)
ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु।
पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन॥ 12-350-8(79907)
साङ्ख्ये च योगशास्त्रे च आयुर्वेदे तथैव च।
बहूनि मम नामानि कीर्तितानि महर्षिभिः॥ 12-350-9(79908)
गौणानि तत्र नामानि कर्मजानि च कानिचित्।
निरुक्तं कर्मजानां त्वं शृणुष्व प्रयतोऽनघ॥ 12-350-10(79909)
कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा।
नमोऽतियशमे तस्मै देवानां परमात्मने॥ 12-350-11(79910)
नारायणाय विश्वाय निर्गुणाय गुणात्मने।
यस्य प्रसादजो ब्रह्मा रुद्रस्य क्रोधसंभवः॥ 12-350-12(79911)
योसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च।
अष्टादशगुणं यत्तत्सत्वं सत्ववतांवर॥ 12-350-13(79912)
प्रकृतिः सा परा मह्यं रोदसी लोकधारिणी।
ऋता सत्याऽमरा जय्या लोकानामात्मसंज्ञिता॥ 12-350-14(79913)
तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः।
तपो यज्ञश्च यष्टा च पुराणः पुरुषो विराट्॥ 12-350-15(79914)
अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः।
ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः॥ 12-350-16(79915)
प्रसादात्प्रादुरभवत्पद्ममर्कनिभं क्षणात्।
तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः॥ 12-350-17(79916)
अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा।
क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः॥ 12-350-18(79917)
एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजावुभौ।
तदादर्शितपन्थानौ सृष्टिसंहारकारकौ॥ 12-350-19(79918)
निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ।
कपदीं जटिलो मुण्डः श्मशानगृहसेवकः॥ 12-350-20(79919)
उग्रव्रतचरो रुद्रो योगी त्रिपुरदारणः।
दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा॥ 12-350-21(79920)
नारायणात्मको ज्ञेयः पाण्डवेय युगेयुगे।
तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे॥ 12-350-22(79921)
संपूजितो भवत्पार्थ देवो नारायणः प्रभुः।
अहमात्मा हि लोकानां विश्वेषां पाण्डुनन्दन॥ 12-350-23(79922)
तस्मादात्मानमेवाग्रे रुद्रं संपूजयाम्यहम्।
यद्यहं नार्चयेयं वै ईशानं वरदं शिवम्॥ 12-350-24(79923)
आत्मानं नार्चयेत्कश्चिदिति मे भावितात्मनः।
मया प्रमाणं हि कृतं लोकः समनुवर्तते॥ 12-350-25(79924)
प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम्।
यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु॥ 12-350-26(79925)
रुद्रो नारायणश्चैव सत्वमेकं द्विधा कृतम्।
लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु॥ 12-350-27(79926)
न हि मे केनचिद्देयो वरः पाण्डवनन्दन।
इति संचिन्त्य मनसा पुराणं रुद्रमीश्वरम्॥ 12-350-28(79927)
पुत्रार्थमाराधितवानहमात्मानमात्मना।
न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय च॥ 12-350-29(79928)
ऋते आत्मानमेवेति ततो रुद्रं नमाम्यहम्।
सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः॥ 12-350-30(79929)
अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम्।
भविष्यतां वर्ततां च भूतानां चैव भारत॥ 12-350-31(79930)
सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः।
नमस्व हव्यदं विष्णुं तथा शरणदं नमः। 12-350-32(79931)
वरदं नमस्व कौन्तेय हव्यकव्यभुजं नमः।
चतुर्विधा मम जना भक्ता एव हि मे श्रुतम्॥ 12-350-33(79932)
तेषामेकान्तिनः श्रेष्ठा ये चैवानन्यदेवताः।
अहमेव गतिस्तेषां निराशीः कर्मकारिणाम्॥ 12-350-34(79933)
ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः।
सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक्॥ 12-350-35(79934)
ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः।
प्रबुद्धचर्याः सेवन्तो मामेवैष्यन्ति यत्फलम्॥ 12-350-36(79935)
भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः।
त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ॥ 12-350-37(79936)
भारावतरणार्थं तु प्रविष्टौ मानुषीं तनुम्।
नानीभ्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत॥ 12-350-38(79937)
निवृत्तिलक्षणो धर्मस्तथाऽऽभ्यदयिकोऽपि च।
नराणामयनं ख्यातमहमेकः सनातनः॥ 12-350-39(79938)
आपो नारा इति प्रोक्ता आपो वै नरसूनवः।
अयनं मम ताः पूर्वमतो नारायणोस्म्यहम्॥ 12-350-40(79939)
छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः।
सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम्॥ 12-350-41(79940)
गतिश्च सर्वभूतानां प्रजनश्चापि भारत।
व्याप्ते म रोदसी पार्थ कान्तिश्चाभ्यधिका मम। 12-350-42(79941)
अधिभूतनिविष्टश्च तद्विश्वं चास्मि भारत।
क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः॥ 12-350-43(79942)
दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति ह।
दिवं चोर्वी च मध्यं च तस्माद्दामोदरो ह्यहम्॥ 12-350-44(79943)
पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा।
ममैतानि सदा गर्भः पृश्निगर्भस्ततो ह्यहम्॥ 12-350-45(79944)
ऋषयः प्राहुरेवं मां त्रितं कूपनिपातितम्।
पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम्॥ 12-350-46(79945)
ततः स ब्रह्मणः पुत्र आद्यो ह्यृषिवरस्त्रितः।
उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात्॥ 12-350-47(79946)
सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत।
अंशवो यत्प्रकाशन्ते ममैते केशसंज्ञिताः॥ 12-350-48(79947)
सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः।
स्वपत्न्यामाहितो गर्भ उचथ्येन महात्मना॥ 12-350-49(79948)
उचथ्येऽन्तहिंते चैव कदाचिद्देवताज्ञया।
बृहस्पतिरथाविन्दत्तां पत्नीं तस्य धीमतः॥ 12-350-50(79949)
ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा।
उवाच गर्भः कौन्तेय पञ्चभूतगुणात्मकः॥ 12-350-51(79950)
पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम्।
एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च॥ 12-350-52(79951)
मैथुनायागतो यस्मात्त्वयाऽहं विनिवारितः।
तस्मादन्धो यास्यसि त्वं मच्छापान्नात्र संशयः॥ 12-350-53(79952)
स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान्।
स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा॥ 12-350-54(79953)
वेदानवाप्य चतुरः साङ्गोपाङ्गान्सनातनान्।
प्रयोजयामास तदा नाम गुह्यमिदं मम॥ 12-350-55(79954)
आनुपूर्व्येण विधिना केशवेति पुनः पुनः।
स चक्षुष्मान्समभवद्गौतमश्चाभवत्पुनः॥ 12-350-56(79955)
एवं हि वरदं नाम केशवेति ममार्जुन।
देवानामथ सर्वेषामृषीणां च महात्मनाम्॥ 12-350-57(79956)
अग्निः सोमेन संयुक्त एकयोनिर्मुखं कृतम्।
अग्नीषोममयं तस्माज्जगत्कृत्स्नं चराचरम्॥ 12-350-58(79957)
अपि हि पुराणे भवति एकयोन्यावग्नीषोमौ देवाश्चाग्निमुखा इति। एकयोनित्वाच्च परस्परं हर्षयन्तो लोकान्धारयन्त इति ॥ ॥ 12-350-59(79958)

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये पञ्चाशदधिकत्रिशततमोऽध्यायः॥ 350॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-350-1 निरुक्तं निर्वचनम्॥ 12-350-3 गुणकर्मजं गुणः सर्वज्ञत्वादिस्तज्जम्। कर्म जगत्सृष्ट्यादि तज्जम्॥ 12-350-14 ऋता सत्या महाराज या लोकानामसंज्ञिता इति थ. पाठः॥ 12-350-17 पद्मं पद्मनिभेक्षणेति झ. पाठः॥ 12-350-32 स्तव्यः पूज्यश्च नित्यश इति ध. पाठः॥ 12-350-33 चतुर्विधाः आर्तो जिज्ञासुरर्थाथां ज्ञानी चेति गीतोक्ताः॥ 12-350-40 तेन नारायणोऽस्म्यहमिति ट. ध. पाठः॥ 12-350-41 वासयामिजगद्विश्वमिति ध. पाठः॥ 12-350-42 सर्वभूतानां ब्रह्मादीनां च भारतेति थ. पाठः॥ 12-350-45 पृच्छन्त्येनं जिज्ञासवो धर्मजातमिति वा पृच्छन्त्येनं क्षुधितादय इति वा पृश्निर्वेदोऽत्रादि वा गर्भो गर्भस्थानि॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.